प्रथमः समाधिपादः ।

अथ योगानुशासनमः ॥ १॥

योगश्चित्तवृत्तिनिरोधः ॥ २॥

तदा द्रष्टुः स्वरूपेऽवस्थानमः ॥ ३॥

वृत्तिसारूप्यमः इतरत्र ॥ ४॥

वृत्तयः पञ्चतय्यः क्लिष्टा अक्लिष्टाः ॥ ५॥

प्रमाणविपर्ययविकल्पनिद्रास्मृतयः ॥ ६॥

प्रत्यक्शानुमानागमाः प्रमाणानि ॥ ७॥

विपर्ययो मिथ्याज्ञानमः अतद्रूपप्रतिष्ठमः ॥ ८॥

शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः ॥ ९॥

अभावप्रत्ययालम्बना वृत्तिर्निद्रा ॥ १०॥

अनुभूतविषयासंप्रमोषः स्मृतिः ॥ ११॥

अभ्यासवैराग्याभ्यां तन्निरोधः ॥ १२॥

तत्र स्थितौ यत्नोऽभ्यासः ॥ १३॥

स तु दीर्घकालनैरन्तर्यसत्कारासेवितो दृढभूमिः ॥ १४॥

दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यमः ॥ १५॥

तत्परं पुरुषख्यातेर्गुणवैतृष्ण्यमः ॥ १६॥

वितर्कविचारानन्दास्मितारूपानुगमातः संप्रज्ञातः ॥ १७॥

विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः ॥ १८॥

भवप्रत्ययो विदेहप्रकृतिलयानामः ॥ १९॥

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषामः ॥ २०॥

तीव्रसंवेगानामः आसन्नः ॥ २१॥

मृदुमध्याधिमात्रत्वातः ततोऽपि विशेषः ॥ २२॥

ईश्वरप्रणिधानादः वा ॥ २३॥

क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः ॥ २४॥

तत्र निरतिशयं सर्वज्ञ्त्वबीजमः ॥ २५॥

स पूर्वेषामः अपि गुरुः कालेनानवच्च्हेदातः ॥ २६॥

तस्य वाचकः प्रणवः ॥ २७॥

तज्जपस्तदर्थभावनमः ॥ २८॥

ततः प्रत्यक्चेतनाधिगमोऽप्यन्तरायाभावश्च ॥ २९॥

व्याधिस्त्यानसंशयप्रमादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकत्वानवस्थितत्वानि

चित्तविक्शेपास्तेऽन्तरायाः ॥ ३०॥

दुःखदौर्मनस्याङ्गमेजयत्वश्वासप्रश्वासा विक्शेपसहभुवः ॥ ३१॥

तत्प्रतिषेधार्थमः एकतत्त्वाभ्यासः ॥ ३२॥

मैत्रीकरुणामुदितोपेक्शणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनमः ॥

३३॥

प्रच्च्हर्दनविधारणाभ्यां वा प्राणस्य ॥ ३४॥

विषयवती वा प्रवृत्तिरुत्पन्ना मनसः स्थितिनिबन्धिनी ॥ ३५॥

विशोका वा ज्योतिष्मती ॥ ३६॥

वीतरागविषयं वा चित्तमः ॥ ३७॥

स्वप्ननिद्राज्ञानालम्बनं वा ॥ ३८॥

यथाभिमतध्यानादः वा ॥ ३९॥

परमाणु परममहत्त्वान्तोऽस्य वशीकारः ॥ ४०॥

क्शीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृग्रहणग्राह्येषु

तत्स्थतदञ्जनतासमापत्तिः ॥ ४१॥

तत्र शब्दार्थज्ञानविकल्पैः संकीर्णा सवितर्का समापत्तिः ॥ ४२॥

स्मृतिपरिशुद्धौ स्वरूपशून्येवार्थमात्रनिर्भासा निर्वितर्का ॥ ४३॥

एतयैव सविचारा निर्विचारा च सूक्श्मविषया व्याख्याता ॥ ४४॥

सूक्श्मविषयत्वं चालिङ्गपर्यवसानमः ॥ ४५॥

ता एव सबीजः समाधिः ॥ ४६॥

निर्विचारवैशारद्येऽध्यात्मप्रसादः ॥ ४७॥

र्तंभरा तत्र प्रज्ञा ॥ ४८॥

श्रुतानुमानप्रज्ञाभ्यामः अन्यविषया विशेषार्थत्वातः ॥ ४९॥

तज्जः संस्कारो न्यसंस्कारप्रतिबन्धी ॥ ५०॥

तस्यापि निरोधे सर्वनिरोधानः निर्बीजः समाधिः ॥ ५१॥

इति पतञ्जलिविरचिते योगसूत्रे प्रथमः समाधिपादः ।

द्वितीयः साधनपादः ।

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥ १॥

समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥ २॥

अविद्यास्मितारागद्वेषाभिनिवेशाः क्लेशाः ॥ ३॥

अविद्या क्शेत्रमः उत्तरेषां प्रसुप्ततनुविच्च्हिन्नोदाराणामः ॥ ४॥

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥ ५॥

दृग्दर्शनशक्त्योरेकात्मतेवास्मिता ॥ ६॥

सुखानुशयी रागः ॥ ७॥

दुःखानुशयी द्वेषः ॥ ८॥

स्वरसवाही विदुषोऽपि तथारूढो भिनिवेशः ॥ ९॥

ते प्रतिप्रसवहेयाः सूक्श्माः ॥ १०॥

ध्यानहेयास्तद्वृत्तयः ॥ ११॥

क्लेशमूलः कर्माशयो दृष्टादृष्टजन्मवेदनीयः ॥ १२॥

सति मूले तद्विपाको जात्यायुर्भोगाः ॥ १३॥

ते ह्लादपरितापफलाः पुण्यापुण्यहेतुत्वातः ॥ १४॥

परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच् च दुःखमः

एव सर्वं विवेकिनः ॥ १५॥

हेयं दुःखमः अनागतमः ॥ १६॥

द्रष्टृदृश्ययोः संयोगो हेयहेतुः ॥ १७॥

प्रकाशक्रियास्थितिशीलं भूतेन्द्रियात्मकं भोगापवर्गार्थं

दृश्यमः ॥ १८॥

विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि ॥ १९॥

द्रष्टा दृशिमात्रः शुद्धोऽपि प्रत्ययानुपश्यः ॥ २०॥

तदर्थ एव दृश्यस्यात्मा ॥ २१॥

कृतार्थं प्रति नष्टमः अप्यनष्टं तदन्यसाधारणत्वातः ॥ २२॥

स्वस्वामिशक्त्योः स्वरूपोपलब्धिहेतुः संयोगः ॥ २३॥

तस्य हेतुरविद्या ॥ २४॥

तदभावातः संयोगाभावो हानं। तदःदृशेः कैवल्यमः ॥ २५॥

विवेकख्यातिरविप्लवा हानोपायः ॥ २६॥

तस्य सप्तधा प्रान्तभूमिः प्रज्ञा ॥ २७॥

योगाङ्गानुष्ठानादः अशुद्धिक्शये ज्ञानदीप्तिरा

विवेकख्यातेः ॥ २८॥

यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टाव

अङ्गानि ॥ २९॥

अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ॥ ३०॥

जातिदेशकालसमयानवच्च्हिन्नाः सार्वभौमा महाव्रतमः ॥ ३१॥

शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमाः ॥ ३२॥

वितर्कबाधने प्रतिपक्शभावनमः ॥ ३३॥

वितर्का हिंसादयः कृतकारितानुमोदिता लोभक्रोधमोहपूर्वका

मृदुमध्याधिमात्रा दुःखाज्ञानानन्तफला इति

प्रतिपक्शभावनमः ॥ ३४॥

अहिंसाप्रतिष्ठायां तत्सन्निधौ वैरत्यागः ॥ ३५॥

सत्यप्रतिष्ठायां क्रियाफलाश्रयत्वमः ॥ ३६॥

अस्तेयप्रतिष्ठायां सर्वरत्नोपस्थानमः ॥ ३७॥

ब्रह्मचर्यप्रतिष्ठायां वीर्यलाभः ॥ ३८॥

अपरिग्रहस्थैर्ये जन्मकथंतासंबोधः ॥ ३९॥

शौचातः स्वाङ्गजुगुप्सा परैरसंसर्गः ॥ ४०॥

सत्त्वशुद्धिसौमनस्यैकाग्रःयेन्द्रियजयात्मदर्शनयोग्यत्वानिच ॥ ४१॥

संतोषादः अनुत्तमः सुखलाभः ॥ ४२॥

कायेन्द्रियसिद्धिरशुद्धिक्शयातः तपसः ॥ ४३॥

स्वाध्यायादः इष्टदेवतासंप्रयोगः ॥ ४४॥

समाधिसिद्धिरीश्वरप्रणिधानातः ॥ ४५॥

स्थिरसुखमः आसनमः ॥ ४६॥

प्रयत्नशैथिल्यानन्तसमापत्तिभ्यामः ॥ ४७॥

ततो द्वन्द्वानभिघातः ॥ ४८॥

तस्मिनः सति श्वासप्रश्वासयोर्गतिविच्च्हेदः प्राणायामः ॥ ४९॥

बाह्याभ्यन्तरस्तम्भवृत्तिः देशकालसंख्याभिः

परिदृष्टो दीर्घसूक्श्मः ॥ ५०॥

बाह्याभ्यन्तरविषयाक्शेपी चतुर्थः ॥ ५१॥

ततः क्शीयते प्रकाशावरणमः ॥ ५२॥

धारणासु च योग्यता मनसः ॥ ५३॥

स्वस्वविषयासंप्रयोगे चित्तस्य स्वरूपानुकार इवेन्द्रियाणां

प्रत्याहारः ॥ ५४॥

ततः परमा वश्यतेन्द्रियाणामः ॥ ५५॥

इति पतञ्जलिविरचिते योगसूत्रे द्वितीयः साधनपादः ।

तृतीयः विभूतिपादः ।

देशबन्धश्चित्तस्य धारणा ॥ १॥

तत्र प्रत्ययैकतानता ध्यानमः ॥ २॥

तदः एवार्थमात्रनिर्भासं स्वरूपशून्यमः इव समाधिः ॥ ३॥

त्रयमः एकत्र संयमः ॥ ४॥

तज्जयातः प्रज्ञाऽऽलोकः ॥ ५॥

तस्य भूमिषु विनियोगः ॥ ६॥

त्रयमः अन्तरङ्गं पूर्वेभ्यः ॥ ७॥

तदः अपि बहिरङ्गं निर्बीजस्य ॥ ८॥

व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ

निरोधक्शणचित्तान्वयो निरोधपरिणामः ॥ ९॥

तस्य प्रशान्तवाहिता संस्कारातः ॥ १०॥

सर्वार्थतैकाग्रतयोः क्शयोदयौ चित्तस्य समाधिपरिणामः ॥ ११॥

ततः पुनः शान्तोदितौ तुल्यप्रत्ययौ

चित्तस्यैकाग्रतापरिणामः ॥ १२॥

एतेन भूतेन्द्रियेषु धर्मलक्शणावस्थापरिणामा व्याख्याताः ॥ १३॥

शान्तोदिताव्यपदेश्यधर्मानुपाती धर्मी ॥ १४॥

क्रमान्यत्वं परिणामान्यत्वे हेतुः ॥ १५॥

परिणामत्रयसंयमादः अतीतानागतज्ञानमः ॥ १६॥

शब्दार्थप्रत्ययानामः इतरेतराध्यासातः संकरः।

तत्प्रविभागसंयमातः सर्वभूतरुतज्ञानमः ॥ १७॥

संस्कारसाक्शत्करणातः पूर्वजातिज्ञानमः ॥ १८॥

प्रत्ययस्य परचित्तज्ञानमः ॥ १९॥

न च ततः सालम्बनं तस्याविषयीभूतत्वातः ॥ २०॥

कायरूपसंयमातः तद्ग्राह्यशक्तिस्तम्भे

चक्शुःप्रकाशासंप्रयोगेऽन्तर्धानमः ॥ २१॥

एतेन शब्दाद्यन्तर्धानमुक्तमः ॥ २२॥

सोपक्रमं निरुपक्रमं च कर्म। तत्संयमादः अपरान्तज्ञानम् अरिष्टेभ्यो वा ॥ २३ ॥

मैत्र्यादिषु बलानि ॥ २४॥

बलेषु हस्तिबलादीनि ॥ २५॥

प्रवृत्त्यालोकन्यासातः सूक्श्मव्यवहितविप्रकृष्टज्ञानमः ॥ २६॥

भुवनज्ञानं सूर्ये संयमातः ॥ २७॥

चन्द्रे ताराव्यूहज्ञानमः ॥ २८॥

ध्रुवे तद्गतिज्ञानमः ॥ २९॥

नाभिचक्रे कायव्यूहज्ञानमः ॥ ३०॥

कण्ठकूपे क्शुत्पिपासानिवृत्तिः ॥ ३१॥

कूर्मनाड्यां स्थैर्यमः ॥ ३२॥

मूर्धज्योतिषि सिद्धदर्शनमः ॥ ३३॥

प्रातिभादः वा सर्वमः ॥ ३४॥

हृदये चित्तसंवितः ॥ ३५॥

सत्त्वपुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थत्वातः

स्वार्थसंयमातः पुरुषज्ञानमः ॥ ३६॥

ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३७॥

ते समाधाव् उपसर्गा। व्युत्थाने सिद्धयः ॥ ३८॥

बन्धकारणशैथिल्यातः प्रचारसंवेदनाच् च चित्तस्य

परशरीरावेशः ॥ ३९ ॥

उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ॥ ४०॥

समानजयातः प्रज्वलनमः ॥ ४१॥

श्रोत्राकाशयोः संबन्धसंयमादः दिव्यं श्रोत्रमः ॥ ४२॥

कायाकाशयोः संबन्धसंयमाल् लघुतूलसमापत्तेश्चाकाशगमनमः ॥ ४३॥

बहिरकल्पिता वृत्तिर्महाविदेहा। ततः प्रकाशावरणक्शयः ॥ ४४॥

स्थूलस्वरूपसूक्श्मान्वयार्थवत्त्वसंयमादःभूतजयः ॥ ४५॥

ततोऽणिमादिप्रादुर्भावः कायसंपतः तद्धर्मानभिघातश्च ॥ ४६॥

रूपलावण्यबलवज्रसंहननत्वानि कायसंपतः ॥ ४७॥

ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादः इन्द्रियजयः ॥ ४८॥

ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥ ४९॥

सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञातृत्वं च ॥ ५०॥

तद्वैराग्यादपि दोषबीजक्शये कैवल्यमः ॥ ५१॥

स्थान्युपनिमन्त्रणे सङ्गस्मयाकरणं पुनः अनिष्टप्रसङ्गातः ॥ ५२॥

क्शणतत्क्रमयोः संयमादविवेकजं ज्ञानमः ॥ ५३॥

जातिलक्शणदेशैरन्यताऽनवच्च्हेदातः तुल्ययोस्ततः प्रतिपत्तिः ॥ ५४॥

तारकं सर्वविषयं सर्वथाविषयमः अक्रमं चेति विवेकजं ज्ञानमः ॥ ५५॥

सत्त्वपुरुषयोः शुद्धिसाम्ये कैवल्यमः इति ॥ ५६॥

इति पतञ्जलिविरचिते योगसूत्रे तृतीयो विभूतिपादः

चतुर्थः कैवल्यपादः ।

जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः ॥ १॥

जात्यन्तरपरिणामः प्रकृत्यापूरातः ॥ २॥

निमित्तमः अप्रयोजकं प्रकृतीनां। वरणभेदस्तु ततः क्शेत्रिकवतः ॥ ३॥

निर्माणचित्तान्यस्मितामात्रातः ॥ ४॥

प्रवृत्तिभेदे प्रयोजकं चित्तमः एकमः अनेकेषामः ॥ ५॥

तत्र ध्यानजमः अनाशयमः ॥ ६॥

कर्माशुक्लाकृष्णं योगिनः त्रिविधमः इतरेषामः ॥ ७॥

ततस्तद्विपाकानुगुणानामः एवाभिव्यक्तिर्वासनानामः ॥ ८॥

जातिदेशकालव्यवहितानामः अप्यानन्तर्यं स्मृतिसंस्कारयोः एकरूपत्वातः ॥ ९॥

तासामः अनादित्वं चाशिषो नित्यत्वातः ॥ १०॥

हेतुफलाश्रयालम्बनैः संगृहीतत्वादः एषामः अभावे तदभावः ॥ ११॥

अतीतानागतं स्वरूपतोऽस्त्यध्वभेदादः धर्माणामः ॥ १२॥

ते व्यक्तसूक्श्मा गुणात्मानः ॥ १३॥

परिणामैकत्वादः वस्तुतत्त्वमः ॥ १४॥

वस्तुसाम्ये चित्तभेदातः तयोर्विभक्तः पन्थाः ॥ १५॥

न चैकचित्ततन्त्रं वस्तु तदः अप्रमाणकं तदा किं स्यातः ॥ १६॥

तदुपरागापेक्शत्वातः चित्तस्य वस्तु ज्ञाताज्ञातमः ॥ १७॥

सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वातः ॥ १८॥

न ततः स्वाभासंदृश्यत्वातः ॥ १९॥

एकसमये चोभयानवधारणमः ॥ २०॥

चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ॥ २१॥

चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनमः ॥ २२॥

द्रष्टृदृश्योपरक्तं चित्तं सर्वार्थमः ॥ २३॥

तदसंख्येयवासनाचित्रमः अपि परार्थं संहत्यकारित्वातः ॥ २४॥

विशेषदर्शिन आत्मभावभावनाविनिवृत्तिः ॥ २५॥

तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तमः ॥ २६॥

तच्च्हिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७॥

हानमः एषां क्लेशवदुक्तमः ॥ २८॥

प्रसंख्यानेऽप्यकुसीदस्य सर्वथाविवेकख्यातेर्धर्ममेघः समाधिः ॥ २९॥

ततः क्लेशकर्मनिवृत्तिः ॥ ३०॥

तदा सर्वावरणमलापेतस्य ज्ञानस्याऽनन्त्याज्ज्ञेयमः अल्पमः ॥ ३१॥

ततः कृतार्थानां परिणामक्रमपरिसमाप्तिर्गुणानामः ॥ ३२॥

क्शणप्रतियोगी परिणामापरान्तनिर्गृआह्यः क्रमः ॥ ३३॥

पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरेति

॥ ३४॥

इति पतञ्जलिविरचिते योगसूत्रे चतुर्थः कैवल्यपादः ।

॥ इति पातञ्जलयोगसूत्राणि ॥